Ṛk 1.39.1
Saṃhitā
प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ ।
कस्य॒ क्रत्वा॑ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥
प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ |
कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ||
prá yáditthā́ parāvátaḥ śocírná mā́namásyatha ǀ
kásya krátvā marutaḥ kásya várpasā kám yātha kám ha dhūtayaḥ ǁ
pra yad itthā parāvataḥ śocir na mānam asyatha |
kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ ||
Padapāṭha
प्र । यत् । इ॒त्था । प॒रा॒ऽवतः॑ । शो॒चिः । न । मान॑म् । अस्य॑थ ।
कस्य॑ । क्रत्वा॑ । म॒रु॒तः॒ । कस्य॑ । वर्प॑सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥
प्र । यत् । इत्था । पराऽवतः । शोचिः । न । मानम् । अस्यथ ।
कस्य । क्रत्वा । मरुतः । कस्य । वर्पसा । कम् । याथ । कम् । ह । धूतयः ॥
prá ǀ yát ǀ itthā́ ǀ parā-vátaḥ ǀ śocíḥ ǀ ná ǀ mā́nam ǀ ásyatha ǀ
kásya ǀ krátvā ǀ marutaḥ ǀ kásya ǀ várpasā ǀ kám ǀ yātha ǀ kám ǀ ha ǀ dhūtayaḥ ǁ
pra ǀ yat ǀ itthā ǀ parā-vataḥ ǀ śociḥ ǀ na ǀ mānam ǀ asyatha ǀ
kasya ǀ kratvā ǀ marutaḥ ǀ kasya ǀ varpasā ǀ kam ǀ yātha ǀ kam ǀ ha ǀ dhūtayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.039.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.18.01
- Maṇḍala · Anuvāka · Ṛk
- 01.08.051
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.