Ṛgveda · Maṇḍala 1 · Sūkta 120
Ṛk 1.120.6
Saṃhitā
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां ।
आक्षी शु॑भस्पती॒ दन् ॥
श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् |
आक्षी शुभस् पती दन् ||
śrutám gāyatrám tákavānasyāhám ciddhí rirébhāśvinā vām ǀ
ā́kṣī́ śubhaspatī dán ǁ
śrutaṃ gāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām |
ākṣī śubhas patī dan ||
Padapāṭha
श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।
आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥
श्रुतम् । गायत्रम् । तकवानस्य । अहम् । चित् । हि । रिरेभ । अश्विना । वाम् ।
आ । अक्षी इति । शुभः । पती इति । दन् ॥
śrutám ǀ gāyatrám ǀ tákavānasya ǀ ahám ǀ cit ǀ hí ǀ rirébha ǀ aśvinā ǀ vām ǀ
ā́ ǀ akṣī́ íti ǀ śubhaḥ ǀ patī íti ǀ dán ǁ
śrutam ǀ gāyatram ǀ takavānasya ǀ aham ǀ cit ǀ hi ǀ rirebha ǀ aśvinā ǀ vām ǀ
ā ǀ akṣī iti ǀ śubhaḥ ǀ patī iti ǀ dan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.120.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.23.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.077
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Gāyatrī, Kakubh, Kavirāj, Naṣṭarūpī, Tanuśirā, Uṣṇih, Viṣṭārabṛhatī, Kṛti, Virāj
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.