Ṛgveda · Maṇḍala 1 · Sūkta 191
Ṛk 1.191.9
Saṃhitā
उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा॑नि॒ जूर्व॑न् ।
आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥
उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् |
आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ||
údapaptadasáu sū́ryaḥ purú víśvāni jū́rvan ǀ
ādityáḥ párvatebhyo viśvádṛṣṭo adṛṣṭahā́ ǁ
ud apaptad asau sūryaḥ puru viśvāni jūrvan |
ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||
Padapāṭha
उत् । अ॒प॒प्त॒त् । अ॒सौ । सूर्यः॑ । पु॒रु । विश्वा॑नि । जूर्व॑न् ।
आ॒दि॒त्यः । पर्व॑तेभ्यः । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ॥
उत् । अपप्तत् । असौ । सूर्यः । पुरु । विश्वानि । जूर्वन् ।
आदित्यः । पर्वतेभ्यः । विश्वऽदृष्टः । अदृष्टऽहा ॥
út ǀ apaptat ǀ asáu ǀ sū́ryaḥ ǀ purú ǀ víśvāni ǀ jū́rvan ǀ
ādityáḥ ǀ párvatebhyaḥ ǀ viśvá-dṛṣṭaḥ ǀ adṛṣṭa-hā́ ǁ
ut ǀ apaptat ǀ asau ǀ sūryaḥ ǀ puru ǀ viśvāni ǀ jūrvan ǀ
ādityaḥ ǀ parvatebhyaḥ ǀ viśva-dṛṣṭaḥ ǀ adṛṣṭa-hā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.191.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.15.04
- Maṇḍala · Anuvāka · Ṛk
- 1.24.108
- Devatā देवता
- Aboṣadhisūryāḥ
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Mahāpaṅkti, Mahābṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.