Ṛgveda · Maṇḍala 1 · Sūkta 180
Ṛk 1.180.7
Saṃhitā
व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।
अधा॑ चि॒द्धि ष्मा॑श्विनावनिंद्या पा॒थो हि ष्मा॑ वृषणा॒वंति॑देवं ॥
वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् |
अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ||
vayám ciddhí vām jaritā́raḥ satyā́ vipanyā́mahe ví paṇírhitā́vān ǀ
ádhā ciddhí ṣmāśvināvanindyā pāthó hí ṣmā vṛṣaṇāvántidevam ǁ
vayaṃ cid dhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān |
adhā cid dhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam ||
Padapāṭha
व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः॑ । स॒त्याः । वि॒प॒न्याम॑हे । वि । प॒णिः । हि॒तऽवा॑न् ।
अध॑ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति॑ऽदेवम् ॥
वयम् । चित् । हि । वाम् । जरितारः । सत्याः । विपन्यामहे । वि । पणिः । हितऽवान् ।
अध । चित् । हि । स्म । अश्विनौ । अनिन्द्या । पाथः । हि । स्म । वृषणौ । अन्तिऽदेवम् ॥
vayám ǀ cit ǀ hí ǀ vām ǀ jaritā́raḥ ǀ satyā́ḥ ǀ vipanyā́mahe ǀ ví ǀ paṇíḥ ǀ hitá-vān ǀ
ádha ǀ cit ǀ hí ǀ sma ǀ aśvinau ǀ anindyā ǀ pātháḥ ǀ hí ǀ sma ǀ vṛṣaṇau ǀ ánti-devam ǁ
vayam ǀ cit ǀ hi ǀ vām ǀ jaritāraḥ ǀ satyāḥ ǀ vipanyāmahe ǀ vi ǀ paṇiḥ ǀ hita-vān ǀ
adha ǀ cit ǀ hi ǀ sma ǀ aśvinau ǀ anindyā ǀ pāthaḥ ǀ hi ǀ sma ǀ vṛṣaṇau ǀ anti-devam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.180.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.24.02
- Maṇḍala · Anuvāka · Ṛk
- 1.24.007
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.