Ṛgveda · Maṇḍala 1 · Sūkta 180
Ṛk 1.180.2
Saṃhitā
यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।
स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥
युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः |
स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ||
yuvámátyasyā́va nakṣatho yádvípatmano náryasya práyajyoḥ ǀ
svásā yádvām viśvagūrtī bhárāti vā́jāyéṭṭe madhupāviṣé ca ǁ
yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ |
svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca ||
Padapāṭha
यु॒वम् । अत्य॑स्य । अव॑ । न॒क्ष॒थः॒ । यत् । विऽप॑त्मनः । नर्य॑स्य । प्रऽय॑ज्योः ।
स्वसा॑ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती । भरा॑ति । वाजा॑य । ईट्टे॑ । म॒धु॒ऽपौ॒ । इ॒षे । च॒ ॥
युवम् । अत्यस्य । अव । नक्षथः । यत् । विऽपत्मनः । नर्यस्य । प्रऽयज्योः ।
स्वसा । यत् । वाम् । विश्वगूर्ती इति विश्वऽगूर्ती । भराति । वाजाय । ईट्टे । मधुऽपौ । इषे । च ॥
yuvám ǀ átyasya ǀ áva ǀ nakṣathaḥ ǀ yát ǀ ví-patmanaḥ ǀ náryasya ǀ prá-yajyoḥ ǀ
svásā ǀ yát ǀ vām ǀ viśvagūrtī íti viśva-gūrtī ǀ bhárāti ǀ vā́jāya ǀ ī́ṭṭe ǀ madhu-pau ǀ iṣé ǀ ca ǁ
yuvam ǀ atyasya ǀ ava ǀ nakṣathaḥ ǀ yat ǀ vi-patmanaḥ ǀ naryasya ǀ pra-yajyoḥ ǀ
svasā ǀ yat ǀ vām ǀ viśvagūrtī iti viśva-gūrtī ǀ bharāti ǀ vājāya ǀ īṭṭe ǀ madhu-pau ǀ iṣe ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.180.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.23.02
- Maṇḍala · Anuvāka · Ṛk
- 1.24.002
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.