Ṛgveda · Maṇḍala 1 · Sūkta 180
Ṛk 1.180.4
Saṃhitā
यु॒वं ह॑ घ॒र्मं मधु॑मंत॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे ।
तद्वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यंति॒ मध्वः॑ ॥
युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे |
तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ||
yuvám ha gharmám mádhumantamátraye’pó ná kṣódo’vṛṇītameṣé ǀ
tádvām narāvaśvinā páśva-iṣṭī ráthyeva cakrā́ práti yanti mádhvaḥ ǁ
yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe |
tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ ||
Padapāṭha
यु॒वम् । ह॒ । घ॒र्मम् । मधु॑ऽमन्तम् । अत्र॑ये । अ॒पः । न । क्षोदः॑ । अ॒वृ॒णी॒त॒म् । ए॒षे ।
तत् । वा॒म् । न॒रौ॒ । अ॒श्वि॒ना॒ । पश्वः॑ऽइष्टिः । रथ्या॑ऽइव । च॒क्रा । प्रति॑ । य॒न्ति॒ । मध्वः॑ ॥
युवम् । ह । घर्मम् । मधुऽमन्तम् । अत्रये । अपः । न । क्षोदः । अवृणीतम् । एषे ।
तत् । वाम् । नरौ । अश्विना । पश्वःऽइष्टिः । रथ्याऽइव । चक्रा । प्रति । यन्ति । मध्वः ॥
yuvám ǀ ha ǀ gharmám ǀ mádhu-mantam ǀ átraye ǀ apáḥ ǀ ná ǀ kṣódaḥ ǀ avṛṇītam ǀ eṣé ǀ
tát ǀ vām ǀ narau ǀ aśvinā ǀ páśvaḥ-iṣṭiḥ ǀ ráthyā-iva ǀ cakrā́ ǀ práti ǀ yanti ǀ mádhvaḥ ǁ
yuvam ǀ ha ǀ gharmam ǀ madhu-mantam ǀ atraye ǀ apaḥ ǀ na ǀ kṣodaḥ ǀ avṛṇītam ǀ eṣe ǀ
tat ǀ vām ǀ narau ǀ aśvinā ǀ paśvaḥ-iṣṭiḥ ǀ rathyā-iva ǀ cakrā ǀ prati ǀ yanti ǀ madhvaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.180.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.23.04
- Maṇḍala · Anuvāka · Ṛk
- 1.24.004
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.