Ṛk 1.84.6
Saṃhitā
नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदिं॑द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥
नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे |
नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ||
nákiṣṭvádrathī́taro hárī yádindra yácchase ǀ
nákiṣṭvā́nu majmánā nákiḥ sváśva ānaśe ǁ
nakiṣ ṭvad rathītaro harī yad indra yacchase |
nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe ||
Padapāṭha
नकिः॑ । त्वत् । र॒थिऽत॑रः । हरी॒ इति॑ । यत् । इ॒न्द्र॒ । यच्छ॑से ।
नकिः॑ । त्वा॒ । अनु॑ । म॒ज्मना॑ । नकिः॑ । सु॒ऽअश्वः॑ । आ॒न॒शे॒ ॥
नकिः । त्वत् । रथिऽतरः । हरी इति । यत् । इन्द्र । यच्छसे ।
नकिः । त्वा । अनु । मज्मना । नकिः । सुऽअश्वः । आनशे ॥
nákiḥ ǀ tvát ǀ rathí-taraḥ ǀ hárī íti ǀ yát ǀ indra ǀ yácchase ǀ
nákiḥ ǀ tvā ǀ ánu ǀ majmánā ǀ nákiḥ ǀ su-áśvaḥ ǀ ānaśe ǁ
nakiḥ ǀ tvat ǀ rathi-taraḥ ǀ harī iti ǀ yat ǀ indra ǀ yacchase ǀ
nakiḥ ǀ tvā ǀ anu ǀ majmanā ǀ nakiḥ ǀ su-aśvaḥ ǀ ānaśe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.084.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.06.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Paṅkti, Gāyatrī, Triṣṭubh, Bṛhatī, Satobṛhatī
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.