Ṛk 1.84.2
Saṃhitā
इंद्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसं ।
ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणां ॥
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् |
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ||
índramíddhárī vaható’pratidhṛṣṭaśavasam ǀ
ṛ́ṣīṇām ca stutī́rúpa yajñám ca mā́nuṣāṇām ǁ
indram id dharī vahato 'pratidhṛṣṭaśavasam |
ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām ||
Padapāṭha
इन्द्र॑म् । इत् । हरी॒ इति॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् ।
ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥
इन्द्रम् । इत् । हरी इति । वहतः । अप्रतिधृष्टऽशवसम् ।
ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥
índram ǀ ít ǀ hárī íti ǀ vahataḥ ǀ ápratidhṛṣṭa-śavasam ǀ
ṛ́ṣīṇām ǀ ca ǀ stutī́ḥ ǀ úpa ǀ yajñám ǀ ca ǀ mā́nuṣāṇām ǁ
indram ǀ it ǀ harī iti ǀ vahataḥ ǀ apratidhṛṣṭa-śavasam ǀ
ṛṣīṇām ǀ ca ǀ stutīḥ ǀ upa ǀ yajñam ǀ ca ǀ mānuṣāṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.084.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.05.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Paṅkti, Gāyatrī, Triṣṭubh, Bṛhatī, Satobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.