Ṛgveda · Maṇḍala 1 · Sūkta 104
Ṛk 1.104.4
Saṃhitā
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑ ।
अं॒ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरंते ॥
युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि शूरः |
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ||
yuyópa nā́bhirúparasyāyóḥ prá pū́rvābhistirate rā́ṣṭi śū́raḥ ǀ
añjasī́ kuliśī́ vīrápatnī páyo hinvānā́ udábhirbharante ǁ
yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ |
añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante ||
Padapāṭha
यु॒योप॑ । नाभिः॑ । उप॑रस्य । आ॒योः । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । राष्टि॑ । शूरः॑ ।
अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒रऽप॑त्नी । पयः॑ । हि॒न्वा॒नाः । उ॒दऽभिः॑ । भ॒र॒न्ते॒ ॥
युयोप । नाभिः । उपरस्य । आयोः । प्र । पूर्वाभिः । तिरते । राष्टि । शूरः ।
अञ्जसी । कुलिशी । वीरऽपत्नी । पयः । हिन्वानाः । उदऽभिः । भरन्ते ॥
yuyópa ǀ nā́bhiḥ ǀ úparasya ǀ āyóḥ ǀ prá ǀ pū́rvābhiḥ ǀ tirate ǀ rā́ṣṭi ǀ śū́raḥ ǀ
añjasī́ ǀ kuliśī́ ǀ vīrá-patnī ǀ páyaḥ ǀ hinvānā́ḥ ǀ udá-bhiḥ ǀ bharante ǁ
yuyopa ǀ nābhiḥ ǀ uparasya ǀ āyoḥ ǀ pra ǀ pūrvābhiḥ ǀ tirate ǀ rāṣṭi ǀ śūraḥ ǀ
añjasī ǀ kuliśī ǀ vīra-patnī ǀ payaḥ ǀ hinvānāḥ ǀ uda-bhiḥ ǀ bharante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.104.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.18.04
- Maṇḍala · Anuvāka · Ṛk
- 1.15.101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.