Ṛk 1.61.15
Saṃhitā
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिंद्रः॑ ॥
अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः |
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ||
asmā́ ídu tyádánu dāyyeṣāméko yádvavné bhū́rerī́śānaḥ ǀ
práitaśam sū́rye paspṛdhānám sáuvaśvye súṣvimāvadíndraḥ ǁ
asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ |
praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ ||
Padapāṭha
अ॒स्मै । इत् । ऊं॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एकः॑ । यत् । व॒व्ने । भूरेः॑ । ईशा॑नः ।
प्र । एत॑शम् । सूर्ये॑ । प॒स्पृ॒धा॒नम् । सौव॑श्व्ये । सुस्वि॑म् । आ॒व॒त् । इन्द्रः॑ ॥
अस्मै । इत् । ऊं इति । त्यत् । अनु । दायि । एषाम् । एकः । यत् । वव्ने । भूरेः । ईशानः ।
प्र । एतशम् । सूर्ये । पस्पृधानम् । सौवश्व्ये । सुस्विम् । आवत् । इन्द्रः ॥
asmái ǀ ít ǀ ūṃ íti ǀ tyát ǀ ánu ǀ dāyi ǀ eṣām ǀ ékaḥ ǀ yát ǀ vavné ǀ bhū́reḥ ǀ ī́śānaḥ ǀ
prá ǀ étaśam ǀ sū́rye ǀ paspṛdhānám ǀ sáuvaśvye ǀ súsvim ǀ āvat ǀ índraḥ ǁ
asmai ǀ it ǀ ūṃ iti ǀ tyat ǀ anu ǀ dāyi ǀ eṣām ǀ ekaḥ ǀ yat ǀ vavne ǀ bhūreḥ ǀ īśānaḥ ǀ
pra ǀ etaśam ǀ sūrye ǀ paspṛdhānam ǀ sauvaśvye ǀ susvim ǀ āvat ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.29.05
- Maṇḍala · Anuvāka · Ṛk
- 1.11.036
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.