Ṛk 1.61.11
Saṃhitā
अ॒स्येदु॑ त्वे॒षसा॑ रंत॒ सिंध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् ।
ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यंतु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ॥
अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् |
ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ||
asyédu tveṣásā ranta síndhavaḥ pári yádvájreṇa sīmáyacchat ǀ
īśānakṛ́ddāśúṣe daśasyánturvī́taye gādhám turváṇiḥ kaḥ ǁ
asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat |
īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ ||
Padapāṭha
अ॒स्य । इत् । ऊं॒ इति॑ । त्वे॒षसा॑ । र॒न्त॒ । सिन्ध॑वः । परि॑ । यत् । वज्रे॑ण । सी॒म् । अय॑च्छत् ।
ई॒शा॒न॒ऽकृत् । दा॒शुषे॑ । द॒श॒स्यन् । तु॒र्वीत॑ये । गा॒धम् । तु॒र्वणिः॑ । क॒रिति॑ कः ॥
अस्य । इत् । ऊं इति । त्वेषसा । रन्त । सिन्धवः । परि । यत् । वज्रेण । सीम् । अयच्छत् ।
ईशानऽकृत् । दाशुषे । दशस्यन् । तुर्वीतये । गाधम् । तुर्वणिः । करिति कः ॥
asyá ǀ ít ǀ ūṃ íti ǀ tveṣásā ǀ ranta ǀ síndhavaḥ ǀ pári ǀ yát ǀ vájreṇa ǀ sīm ǀ áyacchat ǀ
īśāna-kṛ́t ǀ dāśúṣe ǀ daśasyán ǀ turvī́taye ǀ gādhám ǀ turváṇiḥ ǀ karíti kaḥ ǁ
asya ǀ it ǀ ūṃ iti ǀ tveṣasā ǀ ranta ǀ sindhavaḥ ǀ pari ǀ yat ǀ vajreṇa ǀ sīm ǀ ayacchat ǀ
īśāna-kṛt ǀ dāśuṣe ǀ daśasyan ǀ turvītaye ǀ gādham ǀ turvaṇiḥ ǀ kariti kaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.29.01
- Maṇḍala · Anuvāka · Ṛk
- 1.11.032
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.