Ṛk 1.61.5
Saṃhitā
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येंद्रा॑या॒र्कं जु॒ह्वा॒३॒॑ समं॑जे ।
वी॒रं दा॒नौक॑सं वं॒दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माणं॑ ॥
अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे |
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ||
asmā́ ídu sáptimiva śravasyéndrāyārkám juhvā́ sámañje ǀ
vīrám dānáukasam vandádhyai purā́m gūrtáśravasam darmā́ṇam ǁ
asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje |
vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam ||
Padapāṭha
अ॒स्मै । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । श्र॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ।
वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥
अस्मै । इत् । ऊं इति । सप्तिम्ऽइव । श्रवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ।
वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥
asmái ǀ ít ǀ ūṃ íti ǀ sáptim-iva ǀ śravasyā́ ǀ índrāya ǀ arkám ǀ juhvā́ ǀ sám ǀ añje ǀ
vīrám ǀ dāná-okasam ǀ vandádhyai ǀ purā́m ǀ gūrtá-śravasam ǀ darmā́ṇam ǁ
asmai ǀ it ǀ ūṃ iti ǀ saptim-iva ǀ śravasyā ǀ indrāya ǀ arkam ǀ juhvā ǀ sam ǀ añje ǀ
vīram ǀ dāna-okasam ǀ vandadhyai ǀ purām ǀ gūrta-śravasam ǀ darmāṇam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.27.05
- Maṇḍala · Anuvāka · Ṛk
- 1.11.026
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.