Ṛk 1.61.10
Saṃhitā
अ॒स्येदे॒व शव॑सा शु॒षंतं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिंद्रः॑ ।
गा न व्रा॒णा अ॒वनी॑रमुंचद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः |
गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ||
asyédevá śávasā śuṣántam ví vṛścadvájreṇa vṛtrámíndraḥ ǀ
gā́ ná vrāṇā́ avánīramuñcadabhí śrávo dāváne sácetāḥ ǁ
asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ |
gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ ||
Padapāṭha
अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्रः॑ ।
गाः । न । व्रा॒णाः । अ॒वनीः॑ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः॑ । दा॒वने॑ । सऽचे॑ताः ॥
अस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्रः ।
गाः । न । व्राणाः । अवनीः । अमुञ्चत् । अभि । श्रवः । दावने । सऽचेताः ॥
asyá ǀ ít ǀ evá ǀ śávasā ǀ śuṣántam ǀ ví ǀ vṛścat ǀ vájreṇa ǀ vṛtrám ǀ índraḥ ǀ
gā́ḥ ǀ ná ǀ vrāṇā́ḥ ǀ avánīḥ ǀ amuñcat ǀ abhí ǀ śrávaḥ ǀ dāváne ǀ sá-cetāḥ ǁ
asya ǀ it ǀ eva ǀ śavasā ǀ śuṣantam ǀ vi ǀ vṛścat ǀ vajreṇa ǀ vṛtram ǀ indraḥ ǀ
gāḥ ǀ na ǀ vrāṇāḥ ǀ avanīḥ ǀ amuñcat ǀ abhi ǀ śravaḥ ǀ dāvane ǀ sa-cetāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.28.05
- Maṇḍala · Anuvāka · Ṛk
- 1.11.031
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.