Ṛk 1.61.9
Saṃhitā
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्यं॒तरि॑क्षात् ।
स्व॒राळिंद्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् |
स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ||
asyédevá prá ririce mahitvám diváspṛthivyā́ḥ páryantárikṣāt ǀ
svarā́ḷíndro dáma ā́ viśvágūrtaḥ svarírámatro vavakṣe ráṇāya ǁ
asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt |
svarāḷ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya ||
Padapāṭha
अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वम् । दि॒वः । पृ॒थि॒व्याः । परि॑ । अ॒न्तरि॑क्षात् ।
स्व॒ऽराट् । इन्द्रः॑ । दमे॑ । आ । वि॒श्वऽगू॑र्तः । सु॒ऽअ॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥
अस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिवः । पृथिव्याः । परि । अन्तरिक्षात् ।
स्वऽराट् । इन्द्रः । दमे । आ । विश्वऽगूर्तः । सुऽअरिः । अमत्रः । ववक्षे । रणाय ॥
asyá ǀ ít ǀ evá ǀ prá ǀ ririce ǀ mahi-tvám ǀ diváḥ ǀ pṛthivyā́ḥ ǀ pári ǀ antárikṣāt ǀ
sva-rā́ṭ ǀ índraḥ ǀ dáme ǀ ā́ ǀ viśvá-gūrtaḥ ǀ su-aríḥ ǀ ámatraḥ ǀ vavakṣe ǀ ráṇāya ǁ
asya ǀ it ǀ eva ǀ pra ǀ ririce ǀ mahi-tvam ǀ divaḥ ǀ pṛthivyāḥ ǀ pari ǀ antarikṣāt ǀ
sva-rāṭ ǀ indraḥ ǀ dame ǀ ā ǀ viśva-gūrtaḥ ǀ su-ariḥ ǀ amatraḥ ǀ vavakṣe ǀ raṇāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.28.04
- Maṇḍala · Anuvāka · Ṛk
- 1.11.030
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.