Ṛk 1.61.13
Saṃhitā
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः |
युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ||
asyédu prá brūhi pūrvyā́ṇi turásya kármāṇi návya uktháiḥ ǀ
yudhé yádiṣṇāná ā́yudhānyṛghāyámāṇo niriṇā́ti śátrūn ǁ
asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn ||
Padapāṭha
अ॒स्य । इत् । ऊं॒ इति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्यः॑ । उ॒क्थैः ।
यु॒धे । यत् । इ॒ष्णा॒नः । आयु॑धानि । ऋ॒घा॒यमा॑णः । नि॒ऽरि॒णाति॑ । शत्रू॑न् ॥
अस्य । इत् । ऊं इति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्यः । उक्थैः ।
युधे । यत् । इष्णानः । आयुधानि । ऋघायमाणः । निऽरिणाति । शत्रून् ॥
asyá ǀ ít ǀ ūṃ íti ǀ prá ǀ brūhi ǀ pūrvyā́ṇi ǀ turásya ǀ kármāṇi ǀ návyaḥ ǀ uktháiḥ ǀ
yudhé ǀ yát ǀ iṣṇānáḥ ǀ ā́yudhāni ǀ ṛghāyámāṇaḥ ǀ ni-riṇā́ti ǀ śátrūn ǁ
asya ǀ it ǀ ūṃ iti ǀ pra ǀ brūhi ǀ pūrvyāṇi ǀ turasya ǀ karmāṇi ǀ navyaḥ ǀ ukthaiḥ ǀ
yudhe ǀ yat ǀ iṣṇānaḥ ǀ āyudhāni ǀ ṛghāyamāṇaḥ ǀ ni-riṇāti ǀ śatrūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.29.03
- Maṇḍala · Anuvāka · Ṛk
- 1.11.034
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.