Ṛk 1.61.14
Saṃhitā
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥
अस्येद् उ भिया गिरयश् च दृऌहा द्यावा च भूमा जनुषस् तुजेते |
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ||
asyédu bhiyā́ giráyaśca dṛḷhā́ dyā́vā ca bhū́mā janúṣastujete ǀ
úpo venásya jóguvāna oṇím sadyó bhuvadvīryā́ya nodhā́ḥ ǁ
asyed u bhiyā girayaś ca dṛḷhā dyāvā ca bhūmā januṣas tujete |
upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ ||
Padapāṭha
अ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रयः॑ । च॒ । दृ॒ळ्हाः । द्यावा॑ । च॒ । भूम॑ । ज॒नुषः॑ । तु॒जे॒ते॒ इति॑ ।
उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वानः । ओ॒णिम् । स॒द्यः । भु॒व॒त् । वी॒र्या॑य । नो॒धाः ॥
अस्य । इत् । ऊं इति । भिया । गिरयः । च । दृळ्हाः । द्यावा । च । भूम । जनुषः । तुजेते इति ।
उपो इति । वेनस्य । जोगुवानः । ओणिम् । सद्यः । भुवत् । वीर्याय । नोधाः ॥
asyá ǀ ít ǀ ūṃ íti ǀ bhiyā́ ǀ giráyaḥ ǀ ca ǀ dṛḷhā́ḥ ǀ dyā́vā ǀ ca ǀ bhū́ma ǀ janúṣaḥ ǀ tujete íti ǀ
úpo íti ǀ venásya ǀ jóguvānaḥ ǀ oṇím ǀ sadyáḥ ǀ bhuvat ǀ vīryā́ya ǀ nodhā́ḥ ǁ
asya ǀ it ǀ ūṃ iti ǀ bhiyā ǀ girayaḥ ǀ ca ǀ dṛḷhāḥ ǀ dyāvā ǀ ca ǀ bhūma ǀ januṣaḥ ǀ tujete iti ǀ
upo iti ǀ venasya ǀ joguvānaḥ ǀ oṇim ǀ sadyaḥ ǀ bhuvat ǀ vīryāya ǀ nodhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.29.04
- Maṇḍala · Anuvāka · Ṛk
- 1.11.035
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.