Ṛk 1.61.12
Saṃhitā
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः |
गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ||
asmā́ ídu prá bharā tū́tujāno vṛtrā́ya vájramī́śānaḥ kiyedhā́ḥ ǀ
górná párva ví radā tiraścéṣyannárṇāṃsyapā́m carádhyai ǁ
asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ |
gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai ||
Padapāṭha
अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जानः । वृ॒त्राय॑ । वज्र॑म् । ईशा॑नः । कि॒ये॒धाः ।
गोः । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् । अर्णां॑सि । अ॒पाम् । च॒रध्यै॑ ॥
अस्मै । इत् । ऊं इति । प्र । भर । तूतुजानः । वृत्राय । वज्रम् । ईशानः । कियेधाः ।
गोः । न । पर्व । वि । रद । तिरश्चा । इष्यन् । अर्णांसि । अपाम् । चरध्यै ॥
asmái ǀ ít ǀ ūṃ íti ǀ prá ǀ bhara ǀ tū́tujānaḥ ǀ vṛtrā́ya ǀ vájram ǀ ī́śānaḥ ǀ kiyedhā́ḥ ǀ
góḥ ǀ ná ǀ párva ǀ ví ǀ rada ǀ tiraścā́ ǀ íṣyan ǀ árṇāṃsi ǀ apā́m ǀ carádhyai ǁ
asmai ǀ it ǀ ūṃ iti ǀ pra ǀ bhara ǀ tūtujānaḥ ǀ vṛtrāya ǀ vajram ǀ īśānaḥ ǀ kiyedhāḥ ǀ
goḥ ǀ na ǀ parva ǀ vi ǀ rada ǀ tiraścā ǀ iṣyan ǀ arṇāṃsi ǀ apām ǀ caradhyai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.29.02
- Maṇḍala · Anuvāka · Ṛk
- 1.11.033
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.