Ṛk 1.61.7
Saṃhitā
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वांचार्वन्ना॑ ।
मु॒षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् पपिवाञ् चार्व् अन्ना |
मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ||
asyédu mātúḥ sávaneṣu sadyó maháḥ pitúm papivā́ñcā́rvánnā ǀ
muṣāyádvíṣṇuḥ pacatám sáhīyānvídhyadvarāhám tiró ádrimástā ǁ
asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā |
muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā ||
Padapāṭha
अ॒स्य । इत् । ऊं॒ इति॑ । मा॒तुः । सव॑नेषु । स॒द्यः । म॒हः । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ।
मु॒षा॒यत् । विष्णुः॑ । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒रः । अद्रि॑म् । अस्ता॑ ॥
अस्य । इत् । ऊं इति । मातुः । सवनेषु । सद्यः । महः । पितुम् । पपिऽवान् । चारु । अन्ना ।
मुषायत् । विष्णुः । पचतम् । सहीयान् । विध्यत् । वराहम् । तिरः । अद्रिम् । अस्ता ॥
asyá ǀ ít ǀ ūṃ íti ǀ mātúḥ ǀ sávaneṣu ǀ sadyáḥ ǀ maháḥ ǀ pitúm ǀ papi-vā́n ǀ cā́ru ǀ ánnā ǀ
muṣāyát ǀ víṣṇuḥ ǀ pacatám ǀ sáhīyān ǀ vídhyat ǀ varāhám ǀ tiráḥ ǀ ádrim ǀ ástā ǁ
asya ǀ it ǀ ūṃ iti ǀ mātuḥ ǀ savaneṣu ǀ sadyaḥ ǀ mahaḥ ǀ pitum ǀ papi-vān ǀ cāru ǀ annā ǀ
muṣāyat ǀ viṣṇuḥ ǀ pacatam ǀ sahīyān ǀ vidhyat ǀ varāham ǀ tiraḥ ǀ adrim ǀ astā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.28.02
- Maṇḍala · Anuvāka · Ṛk
- 1.11.028
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.