Ṛgveda · Maṇḍala 1 · Sūkta 61

Ṛk 1.61.8

Indra · Nodhas Gautama

The whole sūkta Link

Saṃhitā

अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिंद्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥

अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः |
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ||

asmā́ ídu gnā́ściddevápatnīríndrāyārkámahihátya ūvuḥ ǀ
pári dyā́vāpṛthivī́ jabhra urvī́ nā́sya té mahimā́nam pári ṣṭaḥ ǁ

asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ |
pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ ||

Padapāṭha

अ॒स्मै । इत् । ऊं॒ इति॑ । ग्नाः । चि॒त् । दे॒वऽप॑त्नीः । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वुः ।
परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॒भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्तः ॥

अस्मै । इत् । ऊं इति । ग्नाः । चित् । देवऽपत्नीः । इन्द्राय । अर्कम् । अहिऽहत्ये । ऊवुरित्यूवुः ।
परि । द्यावापृथिवी इति । जभ्रे । उर्वी इति । न । अस्य । ते इति । महिमानम् । परि । स्त इति स्तः ॥

asmái ǀ ít ǀ ūṃ íti ǀ gnā́ḥ ǀ cit ǀ devá-patnīḥ ǀ índrāya ǀ arkám ǀ ahi-hátye ǀ ūvurítyūvuḥ ǀ
pári ǀ dyā́vāpṛthivī́ íti ǀ jabhre ǀ urvī́ íti ǀ ná ǀ asya ǀ té íti ǀ mahimā́nam ǀ pári ǀ sta íti staḥ ǁ

asmai ǀ it ǀ ūṃ iti ǀ gnāḥ ǀ cit ǀ deva-patnīḥ ǀ indrāya ǀ arkam ǀ ahi-hatye ǀ ūvurityūvuḥ ǀ
pari ǀ dyāvāpṛthivī iti ǀ jabhre ǀ urvī iti ǀ na ǀ asya ǀ te iti ǀ mahimānam ǀ pari ǀ sta iti staḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.061.08
Aṣṭaka · Adhyāya · Varga · Ṛk
1.4.28.03
Maṇḍala · Anuvāka · Ṛk
1.11.029
Devatā देवता
Indra
Ṛṣi ऋषि
Nodhas Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.61.8

Interpretations

Sri Aurobindo

To him, to him, to Indra, the Women, the wives of the gods, have woven a song of light in the slaying of the Serpent. He put on for his robe the wide earth and heaven, but they could not encircle his greatness.