Ṛgveda · Maṇḍala 1 · Sūkta 178
Ṛk 1.178.2
Saṃhitā
न घा॒ राजेंद्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णवं॑त॒ योनौ॑ ।
आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इंद्रः॑ स॒ख्या वय॑श्च ॥
न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ |
आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ||
ná ghā rā́jéndra ā́ dabhanno yā́ nú svásārā kṛṇávanta yónau ǀ
ā́paścidasmai sutúkā aveṣangámanna índraḥ sakhyā́ váyaśca ǁ
na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau |
āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca ||
Padapāṭha
न । घ॒ । राजा॑ । इन्द्रः॑ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा॑रा । कृ॒णव॑न्त । योनौ॑ ।
आपः॑ । चि॒त् । अ॒स्मै॒ । सु॒ऽतुकाः॑ । अ॒वे॒ष॒न् । गम॑त् । नः॒ । इन्द्रः॑ । स॒ख्या । वयः॑ । च॒ ॥
न । घ । राजा । इन्द्रः । आ । दभत् । नः । या । नु । स्वसारा । कृणवन्त । योनौ ।
आपः । चित् । अस्मै । सुऽतुकाः । अवेषन् । गमत् । नः । इन्द्रः । सख्या । वयः । च ॥
ná ǀ gha ǀ rā́jā ǀ índraḥ ǀ ā́ ǀ dabhat ǀ naḥ ǀ yā́ ǀ nú ǀ svásārā ǀ kṛṇávanta ǀ yónau ǀ
ā́paḥ ǀ cit ǀ asmai ǀ su-túkāḥ ǀ aveṣan ǀ gámat ǀ naḥ ǀ índraḥ ǀ sakhyā́ ǀ váyaḥ ǀ ca ǁ
na ǀ gha ǀ rājā ǀ indraḥ ǀ ā ǀ dabhat ǀ naḥ ǀ yā ǀ nu ǀ svasārā ǀ kṛṇavanta ǀ yonau ǀ
āpaḥ ǀ cit ǀ asmai ǀ su-tukāḥ ǀ aveṣan ǀ gamat ǀ naḥ ǀ indraḥ ǀ sakhyā ǀ vayaḥ ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.178.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.21.02
- Maṇḍala · Anuvāka · Ṛk
- 1.23.115
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.