Ṛk 1.23.15
Saṃhitā
उ॒तो स मह्य॒मिंदु॑भिः॒ षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
गोभि॒र्यवं॒ न च॑र्कृषत् ॥
उतो स मह्यम् इन्दुभिः षड् युक्तां अनुसेषिधत् |
गोभिर् यवं न चर्कृषत् ||
utó sá máhyamíndubhiḥ ṣáḍyuktā́m̐ anuséṣidhat ǀ
góbhiryávam ná carkṛṣat ǁ
uto sa mahyam indubhiḥ ṣaḍ yuktāṃ anuseṣidhat |
gobhir yavaṃ na carkṛṣat ||
Padapāṭha
उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् ।
गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥
उतो इति । सः । मह्यम् । इन्दुऽभिः । षट् । युक्तान् । अनुऽसेसिधत् ।
गोभिः । यवम् । न । चर्कृषत् ॥
utó íti ǀ sáḥ ǀ máhyam ǀ índu-bhiḥ ǀ ṣáṭ ǀ yuktā́n ǀ anu-sésidhat ǀ
góbhiḥ ǀ yávam ǀ ná ǀ carkṛṣat ǁ
uto iti ǀ saḥ ǀ mahyam ǀ indu-bhiḥ ǀ ṣaṭ ǀ yuktān ǀ anu-sesidhat ǀ
gobhiḥ ǀ yavam ǀ na ǀ carkṛṣat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.023.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.10.05
- Maṇḍala · Anuvāka · Ṛk
- 01.05.068
- Devatā देवता
- 1: Vāyu; 2, 3: Indra, Vāyu; 4-6: Mitra, Varuṇa; 7-9: Indra Marutvat; 10-12: Viśvedevās; 13-15: Pūṣan; 16-22: Apas; 23: Apas (A); Agni (B); 24: Agni
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Pura-Uṣṇih, Pratiṣṭhā
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.