Ṛk 1.31.16
Saṃhitā
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् ।
आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नां ॥
इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् |
आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ||
imā́magne śaráṇim mīmṛṣo na imámádhvānam yámágāma dūrā́t ǀ
āpíḥ pitā́ prámatiḥ somyā́nām bhṛ́mirasyṛṣikṛ́nmártyānām ǁ
imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt |
āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām ||
Padapāṭha
इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् ।
आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥
इमाम् । अग्ने । शरणिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् ।
आपिः । पिता । प्रऽमतिः । सोम्यानाम् । भृमिः । असि । ऋषिऽकृत् । मर्त्यानाम् ॥
imā́m ǀ agne ǀ śaráṇim ǀ mīmṛṣaḥ ǀ naḥ ǀ imám ǀ ádhvānam ǀ yám ǀ ágāma ǀ dūrā́t ǀ
āpíḥ ǀ pitā́ ǀ prá-matiḥ ǀ somyā́nām ǀ bhṛ́miḥ ǀ asi ǀ ṛṣi-kṛ́t ǀ mártyānām ǁ
imām ǀ agne ǀ śaraṇim ǀ mīmṛṣaḥ ǀ naḥ ǀ imam ǀ adhvānam ǀ yam ǀ agāma ǀ dūrāt ǀ
āpiḥ ǀ pitā ǀ pra-matiḥ ǀ somyānām ǀ bhṛmiḥ ǀ asi ǀ ṛṣi-kṛt ǀ martyānām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.031.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.35.01
- Maṇḍala · Anuvāka · Ṛk
- 01.07.016
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.