Ṛk 1.31.10
Saṃhitā
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यं ।
सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं॑ यंति व्रत॒पाम॑दाभ्य ॥
त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् |
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ||
tvámagne prámatistvám pitā́si nastvám vayaskṛ́ttáva jāmáyo vayám ǀ
sám tvā rā́yaḥ śatínaḥ sám sahasríṇaḥ suvī́ram yanti vratapā́madābhya ǁ
tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam |
saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । प्रऽम॑तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒ऽकृत् । तव॑ । जा॒मयः॑ । व॒यम् ।
सम् । त्वा॒ । रायः॑ । श॒तिनः॑ । सम् । स॒ह॒स्रिणः॑ । सु॒ऽवीर॑म् । य॒न्ति॒ । व्र॒त॒ऽपाम् । अ॒दा॒भ्य॒ ॥
त्वम् । अग्ने । प्रऽमतिः । त्वम् । पिता । असि । नः । त्वम् । वयःऽकृत् । तव । जामयः । वयम् ।
सम् । त्वा । रायः । शतिनः । सम् । सहस्रिणः । सुऽवीरम् । यन्ति । व्रतऽपाम् । अदाभ्य ॥
tvám ǀ agne ǀ prá-matiḥ ǀ tvám ǀ pitā́ ǀ asi ǀ naḥ ǀ tvám ǀ vayaḥ-kṛ́t ǀ táva ǀ jāmáyaḥ ǀ vayám ǀ
sám ǀ tvā ǀ rā́yaḥ ǀ śatínaḥ ǀ sám ǀ sahasríṇaḥ ǀ su-vī́ram ǀ yanti ǀ vrata-pā́m ǀ adābhya ǁ
tvam ǀ agne ǀ pra-matiḥ ǀ tvam ǀ pitā ǀ asi ǀ naḥ ǀ tvam ǀ vayaḥ-kṛt ǀ tava ǀ jāmayaḥ ǀ vayam ǀ
sam ǀ tvā ǀ rāyaḥ ǀ śatinaḥ ǀ sam ǀ sahasriṇaḥ ǀ su-vīram ǀ yanti ǀ vrata-pām ǀ adābhya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.031.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.33.05
- Maṇḍala · Anuvāka · Ṛk
- 01.07.010
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.