Ṛgveda · Maṇḍala 1 · Sūkta 151
Ṛk 1.151.1
Saṃhitā
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् ।
अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ॥
मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् |
अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ||
mitrám ná yám śímyā góṣu gavyávaḥ svādhyó vidáthe apsú jī́janan ǀ
árejetām ródasī pā́jasā girā́ práti priyám yajatám janúṣāmávaḥ ǁ
mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan |
arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ ||
Padapāṭha
मि॒त्रम् । न । यम् । शिम्या॑ । गोषु॑ । ग॒व्यवः॑ । सु॒ऽआ॒ध्यः॑ । वि॒दथे॑ । अ॒प्ऽसु । जीज॑नन् ।
अरे॑जेताम् । रोद॑सी॒ इति॑ । पाज॑सा । गि॒रा । प्रति॑ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा॑म् । अवः॑ ॥
मित्रम् । न । यम् । शिम्या । गोषु । गव्यवः । सुऽआध्यः । विदथे । अप्ऽसु । जीजनन् ।
अरेजेताम् । रोदसी इति । पाजसा । गिरा । प्रति । प्रियम् । यजतम् । जनुषाम् । अवः ॥
mitrám ǀ ná ǀ yám ǀ śímyā ǀ góṣu ǀ gavyávaḥ ǀ su-ādhyáḥ ǀ vidáthe ǀ ap-sú ǀ jī́janan ǀ
árejetām ǀ ródasī íti ǀ pā́jasā ǀ girā́ ǀ práti ǀ priyám ǀ yajatám ǀ janúṣām ǀ ávaḥ ǁ
mitram ǀ na ǀ yam ǀ śimyā ǀ goṣu ǀ gavyavaḥ ǀ su-ādhyaḥ ǀ vidathe ǀ ap-su ǀ jījanan ǀ
arejetām ǀ rodasī iti ǀ pājasā ǀ girā ǀ prati ǀ priyam ǀ yajatam ǀ januṣām ǀ avaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.151.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.20.01
- Maṇḍala · Anuvāka · Ṛk
- 1.21.083
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.