Ṛgveda · Maṇḍala 1 · Sūkta 181
Ṛk 1.181.9
Saṃhitā
यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् ।
हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
युवाम् पूषेवाश्विना पुरन्धिर् अग्निम् उषां न जरते हविष्मान् |
हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ||
yuvā́m pūṣévāśvinā púraṃdhiragnímuṣā́m ná jarate havíṣmān ǀ
huvé yádvām varivasyā́ gṛṇānó vidyā́meṣám vṛjánam jīrádānum ǁ
yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān |
huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||
Padapāṭha
यु॒वाम् । पू॒षाऽइ॑व । अ॒श्वि॒ना॒ । पुर॑म्ऽधिः । अ॒ग्निम् । उ॒षाम् । न । ज॒र॒ते॒ । ह॒विष्मा॑न् ।
हु॒वे । यत् । वा॒म् । व॒रि॒व॒स्या । गृ॒णा॒नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
युवाम् । पूषाऽइव । अश्विना । पुरम्ऽधिः । अग्निम् । उषाम् । न । जरते । हविष्मान् ।
हुवे । यत् । वाम् । वरिवस्या । गृणानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥
yuvā́m ǀ pūṣā́-iva ǀ aśvinā ǀ púram-dhiḥ ǀ agním ǀ uṣā́m ǀ ná ǀ jarate ǀ havíṣmān ǀ
huvé ǀ yát ǀ vām ǀ varivasyā́ ǀ gṛṇānáḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ
yuvām ǀ pūṣā-iva ǀ aśvinā ǀ puram-dhiḥ ǀ agnim ǀ uṣām ǀ na ǀ jarate ǀ haviṣmān ǀ
huve ǀ yat ǀ vām ǀ varivasyā ǀ gṛṇānaḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.181.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.26.04
- Maṇḍala · Anuvāka · Ṛk
- 1.24.019
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.