Ṛgveda · Maṇḍala 1 · Sūkta 181
Ṛk 1.181.8
Saṃhitā
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् ।
वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् |
वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ||
utá syā́ vām rúśato vápsaso gī́stribarhíṣi sádasi pinvate nṝ́n ǀ
vṛ́ṣā vām meghó vṛṣaṇā pīpāya górná séke mánuṣo daśasyán ǁ
uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn |
vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan ||
Padapāṭha
उ॒त । स्या । वा॒म् । रुश॑तः । वप्स॑सः । गीः । त्रि॒ऽब॒र्हिषि॑ । सद॑सि । पि॒न्व॒ते॒ । नॄन् ।
वृषा॑ । वा॒म् । मे॒घः । वृ॒ष॒णा॒ । पी॒पा॒य॒ । गोः । न । सेके॑ । मनु॑षः । द॒श॒स्यन् ॥
उत । स्या । वाम् । रुशतः । वप्ससः । गीः । त्रिऽबर्हिषि । सदसि । पिन्वते । नॄन् ।
वृषा । वाम् । मेघः । वृषणा । पीपाय । गोः । न । सेके । मनुषः । दशस्यन् ॥
utá ǀ syā́ ǀ vām ǀ rúśataḥ ǀ vápsasaḥ ǀ gī́ḥ ǀ tri-barhíṣi ǀ sádasi ǀ pinvate ǀ nṝ́n ǀ
vṛ́ṣā ǀ vām ǀ megháḥ ǀ vṛṣaṇā ǀ pīpāya ǀ góḥ ǀ ná ǀ séke ǀ mánuṣaḥ ǀ daśasyán ǁ
uta ǀ syā ǀ vām ǀ ruśataḥ ǀ vapsasaḥ ǀ gīḥ ǀ tri-barhiṣi ǀ sadasi ǀ pinvate ǀ nṝn ǀ
vṛṣā ǀ vām ǀ meghaḥ ǀ vṛṣaṇā ǀ pīpāya ǀ goḥ ǀ na ǀ seke ǀ manuṣaḥ ǀ daśasyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.181.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.26.03
- Maṇḍala · Anuvāka · Ṛk
- 1.24.018
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.