Ṛgveda · Maṇḍala 1 · Sūkta 173
Ṛk 1.173.3
Saṃhitā
नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः ।
क्रंद॒दश्वो॒ नय॑मानो रु॒वद्गौरं॒तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः |
क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ||
nákṣaddhótā pári sádma mitā́ yánbháradgárbhamā́ śarádaḥ pṛthivyā́ḥ ǀ
krándadáśvo náyamāno ruvádgáurantárdūtó ná ródasī caradvā́k ǁ
nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ |
krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk ||
Padapāṭha
नक्ष॑त् । होता॑ । परि॑ । सद्म॑ । मि॒ता । यन् । भर॑त् । गर्भ॑म् । आ । श॒रदः॑ । पृ॒थि॒व्याः ।
क्रन्द॑त् । अश्वः॑ । नय॑मानः । रु॒वत् । गौः । अ॒न्तः । दू॒तः । न । रोद॑सी॒ इति॑ । च॒र॒त् । वाक् ॥
नक्षत् । होता । परि । सद्म । मिता । यन् । भरत् । गर्भम् । आ । शरदः । पृथिव्याः ।
क्रन्दत् । अश्वः । नयमानः । रुवत् । गौः । अन्तः । दूतः । न । रोदसी इति । चरत् । वाक् ॥
nákṣat ǀ hótā ǀ pári ǀ sádma ǀ mitā́ ǀ yán ǀ bhárat ǀ gárbham ǀ ā́ ǀ śarádaḥ ǀ pṛthivyā́ḥ ǀ
krándat ǀ áśvaḥ ǀ náyamānaḥ ǀ ruvát ǀ gáuḥ ǀ antáḥ ǀ dūtáḥ ǀ ná ǀ ródasī íti ǀ carat ǀ vā́k ǁ
nakṣat ǀ hotā ǀ pari ǀ sadma ǀ mitā ǀ yan ǀ bharat ǀ garbham ǀ ā ǀ śaradaḥ ǀ pṛthivyāḥ ǀ
krandat ǀ aśvaḥ ǀ nayamānaḥ ǀ ruvat ǀ gauḥ ǀ antaḥ ǀ dūtaḥ ǀ na ǀ rodasī iti ǀ carat ǀ vāk ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.173.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.13.03
- Maṇḍala · Anuvāka · Ṛk
- 1.23.076
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.