Ṛk 1.57.4
Saṃhitā
इ॒मे त॑ इंद्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥
इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो |
नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ||
imé ta indra té vayám puruṣṭuta yé tvārábhya cárāmasi prabhūvaso ǀ
nahí tvádanyó girvaṇo gíraḥ sághatkṣoṇī́riva práti no harya tádvácaḥ ǁ
ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ ||
Padapāṭha
इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः॑ । सघ॑त् । क्षो॒णीःऽइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥
इमे । ते । इन्द्र । ते । वयम् । पुरुऽस्तुत । ये । त्वा । आऽरभ्य । चरामसि । प्रभुवसो इति प्रभुऽवसो ।
नहि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीःऽइव । प्रति । नः । हर्य । तत् । वचः ॥
imé ǀ te ǀ indra ǀ té ǀ vayám ǀ puru-stuta ǀ yé ǀ tvā ǀ ā-rábhya ǀ cárāmasi ǀ prabhuvaso íti prabhu-vaso ǀ
nahí ǀ tvát ǀ anyáḥ ǀ girvaṇaḥ ǀ gíraḥ ǀ sághat ǀ kṣoṇī́ḥ-iva ǀ práti ǀ naḥ ǀ harya ǀ tát ǀ vácaḥ ǁ
ime ǀ te ǀ indra ǀ te ǀ vayam ǀ puru-stuta ǀ ye ǀ tvā ǀ ā-rabhya ǀ carāmasi ǀ prabhuvaso iti prabhu-vaso ǀ
nahi ǀ tvat ǀ anyaḥ ǀ girvaṇaḥ ǀ giraḥ ǀ saghat ǀ kṣoṇīḥ-iva ǀ prati ǀ naḥ ǀ harya ǀ tat ǀ vacaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.057.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.22.04
- Maṇḍala · Anuvāka · Ṛk
- 1.10.070
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.