Ṛk 1.57.2
Saṃhitā
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इंद्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥
अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः |
यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ||
ádha te víśvamánu hāsadiṣṭáya ā́po nimnéva sávanā havíṣmataḥ ǀ
yátpárvate ná samáśīta haryatá índrasya vájraḥ śnáthitā hiraṇyáyaḥ ǁ
adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ |
yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||
Padapāṭha
अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः ।
यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥
अध । ते । विश्वम् । अनु । ह । असत् । इष्टये । आपः । निम्नाऽइव । सवना । हविष्मतः ।
यत् । पर्वते । न । सम्ऽअशीत । हर्यतः । इन्द्रस्य । वज्रः । श्नथिता । हिरण्ययः ॥
ádha ǀ te ǀ víśvam ǀ ánu ǀ ha ǀ asat ǀ iṣṭáye ǀ ā́paḥ ǀ nimnā́-iva ǀ sávanā ǀ havíṣmataḥ ǀ
yát ǀ párvate ǀ ná ǀ sam-áśīta ǀ haryatáḥ ǀ índrasya ǀ vájraḥ ǀ śnáthitā ǀ hiraṇyáyaḥ ǁ
adha ǀ te ǀ viśvam ǀ anu ǀ ha ǀ asat ǀ iṣṭaye ǀ āpaḥ ǀ nimnā-iva ǀ savanā ǀ haviṣmataḥ ǀ
yat ǀ parvate ǀ na ǀ sam-aśīta ǀ haryataḥ ǀ indrasya ǀ vajraḥ ǀ śnathitā ǀ hiraṇyayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.057.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.22.02
- Maṇḍala · Anuvāka · Ṛk
- 1.10.068
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.