Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.5
Saṃhitā
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू |
शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ||
túbhyam páyo yátpitárāvánītām rā́dhaḥ surétasturáṇe bhuraṇyū́ ǀ
śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ǁ
tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū |
śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||
Padapāṭha
तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ ।
शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥
तुभ्यम् । पयः । यत् । पितरौ । अनीताम् । राधः । सुऽरेतः । तुरणे । भुरण्यू इति ।
शुचि । यत् । ते । रेक्णः । अयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥
túbhyam ǀ páyaḥ ǀ yát ǀ pitárau ǀ ánītām ǀ rā́dhaḥ ǀ su-rétaḥ ǀ turáṇe ǀ bhuraṇyū́ íti ǀ
śúci ǀ yát ǀ te ǀ rékṇaḥ ǀ áyajanta ǀ sabaḥ-dúghāyāḥ ǀ páyaḥ ǀ usríyāyāḥ ǁ
tubhyam ǀ payaḥ ǀ yat ǀ pitarau ǀ anītām ǀ rādhaḥ ǀ su-retaḥ ǀ turaṇe ǀ bhuraṇyū iti ǀ
śuci ǀ yat ǀ te ǀ rekṇaḥ ǀ ayajanta ǀ sabaḥ-dughāyāḥ ǀ payaḥ ǀ usriyāyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.24.05
- Maṇḍala · Anuvāka · Ṛk
- 1.18.005
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.