Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.8
Saṃhitā
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्सं॑ ।
हरिं॒ यत्ते॑ मं॒दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्यं॑ ॥
अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् |
हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ||
aṣṭā́ mahó divá ā́do hárī ihá dyumnāsā́hamabhí yodhāná útsam ǀ
hárim yátte mandínam dukṣánvṛdhé górabhasamádribhirvātā́pyam ǁ
aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam |
hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam ||
Padapāṭha
अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॒म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् ।
हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥
अष्टा । महः । दिवः । आदः । हरी इति । इह । द्युम्नऽसहम् । अभि । योधानः । उत्सम् ।
हरिम् । यत् । ते । मन्दिनम् । धुक्षन् । वृधे । गोऽरभसम् । अद्रिऽभिः । वाताप्यम् ॥
aṣṭā́ ǀ maháḥ ǀ diváḥ ǀ ā́daḥ ǀ hárī íti ǀ ihá ǀ dyumna-sáham ǀ abhí ǀ yodhānáḥ ǀ útsam ǀ
hárim ǀ yát ǀ te ǀ mandínam ǀ dhukṣán ǀ vṛdhé ǀ gó-rabhasam ǀ ádri-bhiḥ ǀ vātā́pyam ǁ
aṣṭā ǀ mahaḥ ǀ divaḥ ǀ ādaḥ ǀ harī iti ǀ iha ǀ dyumna-saham ǀ abhi ǀ yodhānaḥ ǀ utsam ǀ
harim ǀ yat ǀ te ǀ mandinam ǀ dhukṣan ǀ vṛdhe ǀ go-rabhasam ǀ adri-bhiḥ ǀ vātāpyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.25.03
- Maṇḍala · Anuvāka · Ṛk
- 1.18.008
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.