Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.3
Saṃhitā
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामंगि॑रसा॒मनु॒ द्यून् ।
तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तंभ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
नक्षद् धवम् अरुणीः पूर्व्यं राट् तुरो विशाम् अङ्गिरसाम् अनु द्यून् |
तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ||
nákṣaddhávamaruṇī́ḥ pūrvyám rā́ṭ turó viśā́máṅgirasāmánu dyū́n ǀ
tákṣadvájram níyutam tastámbhaddyā́m cátuṣpade náryāya dvipā́de ǁ
nakṣad dhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn |
takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde ||
Padapāṭha
नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् ।
तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥
नक्षत् । हवम् । अरुणीः । पूर्व्यम् । राट् । तुरः । विशाम् । अङ्गिरसाम् । अनु । द्यून् ।
तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतुःऽपदे । नर्याय । द्विऽपादे ॥
nákṣat ǀ hávam ǀ aruṇī́ḥ ǀ pūrvyám ǀ rā́ṭ ǀ turáḥ ǀ viśā́m ǀ áṅgirasām ǀ ánu ǀ dyū́n ǀ
tákṣat ǀ vájram ǀ ní-yutam ǀ tastámbhat ǀ dyā́m ǀ cátuḥ-pade ǀ náryāya ǀ dvi-pā́de ǁ
nakṣat ǀ havam ǀ aruṇīḥ ǀ pūrvyam ǀ rāṭ ǀ turaḥ ǀ viśām ǀ aṅgirasām ǀ anu ǀ dyūn ǀ
takṣat ǀ vajram ǀ ni-yutam ǀ tastambhat ǀ dyām ǀ catuḥ-pade ǀ naryāya ǀ dvi-pāde ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.24.03
- Maṇḍala · Anuvāka · Ṛk
- 1.18.003
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.