Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.2
Saṃhitā
स्तंभी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।
अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः |
अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ||
stámbhīddha dyā́m sá dharúṇam pruṣāyadṛbhúrvā́jāya dráviṇam náro góḥ ǀ
ánu svajā́m mahiṣáścakṣata vrā́m ménāmáśvasya pári mātáram góḥ ǁ
stambhīd dha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ |
anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ ||
Padapāṭha
स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णम् । नरः॑ । गोः ।
अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥
स्तम्भीत् । ह । द्याम् । सः । धरुणम् । प्रुषायत् । ऋभुः । वाजाय । द्रविणम् । नरः । गोः ।
अनु । स्वऽजाम् । महिषः । चक्षत । व्राम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥
stámbhīt ǀ ha ǀ dyā́m ǀ sáḥ ǀ dharúṇam ǀ pruṣāyat ǀ ṛbhúḥ ǀ vā́jāya ǀ dráviṇam ǀ náraḥ ǀ góḥ ǀ
ánu ǀ sva-jā́m ǀ mahiṣáḥ ǀ cakṣata ǀ vrā́m ǀ ménām ǀ áśvasya ǀ pári ǀ mātáram ǀ góḥ ǁ
stambhīt ǀ ha ǀ dyām ǀ saḥ ǀ dharuṇam ǀ pruṣāyat ǀ ṛbhuḥ ǀ vājāya ǀ draviṇam ǀ naraḥ ǀ goḥ ǀ
anu ǀ sva-jām ǀ mahiṣaḥ ǀ cakṣata ǀ vrām ǀ menām ǀ aśvasya ǀ pari ǀ mātaram ǀ goḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.24.02
- Maṇḍala · Anuvāka · Ṛk
- 1.18.002
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.