Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.14
Saṃhitā
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः ।
यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः |
यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ||
nikrámaṇam niṣádanam vivártanam yácca páḍbīśamárvataḥ ǀ
yácca papáu yácca ghāsím jaghā́sa sárvā tā́ te ápi devéṣvastu ǁ
nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ |
yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu ||
Padapāṭha
नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः ।
यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
निऽक्रमणम् । निऽसदनम् । विऽवर्तनम् । यत् । च । पड्बीशम् । अर्वतः ।
यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥
ni-krámaṇam ǀ ni-sádanam ǀ vi-vártanam ǀ yát ǀ ca ǀ páḍbīśam ǀ árvataḥ ǀ
yát ǀ ca ǀ papáu ǀ yát ǀ ca ǀ ghāsím ǀ jaghā́sa ǀ sárvā ǀ tā́ ǀ te ǀ ápi ǀ devéṣu ǀ astu ǁ
ni-kramaṇam ǀ ni-sadanam ǀ vi-vartanam ǀ yat ǀ ca ǀ paḍbīśam ǀ arvataḥ ǀ
yat ǀ ca ǀ papau ǀ yat ǀ ca ǀ ghāsim ǀ jaghāsa ǀ sarvā ǀ tā ǀ te ǀ api ǀ deveṣu ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.09.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.