Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.11
Saṃhitā
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।
मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति |
मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ||
yátte gā́trādagnínā pacyámānādabhí śū́lam níhatasyāvadhā́vati ǀ
mā́ tádbhū́myāmā́ śriṣanmā́ tṛ́ṇeṣu devébhyastáduśádbhyo rātámastu ǁ
yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati |
mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu ||
Padapāṭha
यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति ।
मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥
यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । निऽहतस्य । अवऽधावति ।
मा । तत् । भूम्याम् । आ । श्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशत्ऽभ्यः । रातम् । अस्तु ॥
yát ǀ te ǀ gā́trāt ǀ agnínā ǀ pacyámānāt ǀ abhí ǀ śū́lam ǀ ní-hatasya ǀ ava-dhā́vati ǀ
mā́ ǀ tát ǀ bhū́myām ǀ ā́ ǀ śriṣat ǀ mā́ ǀ tṛ́ṇeṣu ǀ devébhyaḥ ǀ tát ǀ uśát-bhyaḥ ǀ rātám ǀ astu ǁ
yat ǀ te ǀ gātrāt ǀ agninā ǀ pacyamānāt ǀ abhi ǀ śūlam ǀ ni-hatasya ǀ ava-dhāvati ǀ
mā ǀ tat ǀ bhūmyām ǀ ā ǀ śriṣat ǀ mā ǀ tṛṇeṣu ǀ devebhyaḥ ǀ tat ǀ uśat-bhyaḥ ǀ rātam ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.09.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.