Ṛgveda · Maṇḍala 1 · Sūkta 162

Ṛk 1.162.9

Aśvamedha · Dīrghatamas Aucathya

The whole sūkta Link

Saṃhitā

यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति |
यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ||

yádáśvasya kravíṣo mákṣikā́śa yádvā svárau svádhitau riptámásti ǀ
yáddhástayoḥ śamitúryánnakhéṣu sárvā tā́ te ápi devéṣvastu ǁ

yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti |
yad dhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu ||

Padapāṭha

यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ ।
यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्वरौ । स्वऽधितौ । रिप्तम् । अस्ति ।
यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥

yát ǀ áśvasya ǀ kravíṣaḥ ǀ mákṣikā ǀ ā́śa ǀ yát ǀ vā ǀ svárau ǀ svá-dhitau ǀ riptám ǀ ásti ǀ
yát ǀ hástayoḥ ǀ śamitúḥ ǀ yát ǀ nakhéṣu ǀ sárvā ǀ tā́ ǀ te ǀ ápi ǀ devéṣu ǀ astu ǁ

yat ǀ aśvasya ǀ kraviṣaḥ ǀ makṣikā ǀ āśa ǀ yat ǀ vā ǀ svarau ǀ sva-dhitau ǀ riptam ǀ asti ǀ
yat ǀ hastayoḥ ǀ śamituḥ ǀ yat ǀ nakheṣu ǀ sarvā ǀ tā ǀ te ǀ api ǀ deveṣu ǀ astu ǁ

References

Maṇḍala · Sūkta · Ṛk
01.162.09
Aṣṭaka · Adhyāya · Varga · Ṛk
2.3.08.00
Devatā देवता
Aśvamedha
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.162.9

Interpretations

Ralph T. H. Griffith

What part of the Steed's flesh the fly hath eaten, or is left sticking to the post or hatchet, Or to the slayer's hands and nails adhereth,—among the Gods, too, may all this be with thee.