Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.10
Saṃhitā
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ गं॒धो अस्ति॑ ।
सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वंतू॒त मेधं॑ शृत॒पाकं॑ पचंतु ॥
यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति |
सुकृता तच् छमितारः कृण्वन्तूत मेधं शृतपाकम् पचन्तु ||
yádū́vadhyamudárasyāpavā́ti yá āmásya kravíṣo gandhó ásti ǀ
sukṛtā́ tácchamitā́raḥ kṛṇvantūtá médham śṛtapā́kam pacantu ǁ
yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti |
sukṛtā tac chamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu ||
Padapāṭha
यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ ।
सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥
यत् । ऊवध्यम् । उदरस्य । अपऽवाति । यः । आमस्य । क्रविषः । गन्धः । अस्ति ।
सुऽकृता । तत् । शमितारः । कृण्वन्तु । उत । मेधम् । शृतऽपाकम् । पचन्तु ॥
yát ǀ ū́vadhyam ǀ udárasya ǀ apa-vā́ti ǀ yáḥ ǀ āmásya ǀ kravíṣaḥ ǀ gandháḥ ǀ ásti ǀ
su-kṛtā́ ǀ tát ǀ śamitā́raḥ ǀ kṛṇvantu ǀ utá ǀ médham ǀ śṛta-pā́kam ǀ pacantu ǁ
yat ǀ ūvadhyam ǀ udarasya ǀ apa-vāti ǀ yaḥ ǀ āmasya ǀ kraviṣaḥ ǀ gandhaḥ ǀ asti ǀ
su-kṛtā ǀ tat ǀ śamitāraḥ ǀ kṛṇvantu ǀ uta ǀ medham ǀ śṛta-pākam ǀ pacantu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.08.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.