Ṛgveda · Maṇḍala 1 · Sūkta 163
Ṛk 1.163.9
Saṃhitā
हिर॑ण्यशृं॒गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इंद्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्वं॑तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् |
देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ||
híraṇyaśṛṅgó’yo asya pā́dā mánojavā ávara índra āsīt ǀ
devā́ ídasya havirádyamāyanyó árvantam prathamó adhyátiṣṭhat ǁ
hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt |
devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat ||
Padapāṭha
हिर॑ण्यऽशृङ्गः । अयः॑ । अ॒स्य॒ । पादाः॑ । मनः॑ऽजवाः । अव॑रः । इन्द्रः॑ । आ॒सी॒त् ।
दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒ऽअद्य॑म् । आ॒य॒न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒धि॒ऽअति॑ष्ठत् ॥
हिरण्यऽशृङ्गः । अयः । अस्य । पादाः । मनःऽजवाः । अवरः । इन्द्रः । आसीत् ।
देवाः । इत् । अस्य । हविःऽअद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधिऽअतिष्ठत् ॥
híraṇya-śṛṅgaḥ ǀ áyaḥ ǀ asya ǀ pā́dāḥ ǀ mánaḥ-javāḥ ǀ ávaraḥ ǀ índraḥ ǀ āsīt ǀ
devā́ḥ ǀ ít ǀ asya ǀ haviḥ-ádyam ǀ āyan ǀ yáḥ ǀ árvantam ǀ prathamáḥ ǀ adhi-átiṣṭhat ǁ
hiraṇya-śṛṅgaḥ ǀ ayaḥ ǀ asya ǀ pādāḥ ǀ manaḥ-javāḥ ǀ avaraḥ ǀ indraḥ ǀ āsīt ǀ
devāḥ ǀ it ǀ asya ǀ haviḥ-adyam ǀ āyan ǀ yaḥ ǀ arvantam ǀ prathamaḥ ǀ adhi-atiṣṭhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.163.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.12.04
- Maṇḍala · Anuvāka · Ṛk
- 1.22.067
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.