Ṛgveda · Maṇḍala 1 · Sūkta 140
Ṛk 1.140.13
Saṃhitā
अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिंध॑वश्च॒ स्वगू॑र्ताः ।
गव्यं॒ यव्यं॒ यंतो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरंत ॥
अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः |
गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ||
abhī́ no agna ukthámíjjuguryā dyā́vākṣā́mā síndhavaśca svágūrtāḥ ǀ
gávyam yávyam yánto dīrghā́héṣam váramaruṇyó varanta ǁ
abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ |
gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta ||
Padapāṭha
अ॒भि । नः॒ । अ॒ग्ने॒ । उ॒क्थम् । इत् । जु॒गु॒र्याः॒ । द्यावा॒क्षामा॑ । सिन्ध॑वः । च॒ । स्वऽगू॑र्ताः ।
गव्य॑म् । यव्य॑म् । यन्तः॑ । दी॒र्घा । अहा॑ । इष॑म् । वर॑म् । अ॒रु॒ण्यः॑ । व॒र॒न्त॒ ॥
अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्वऽगूर्ताः ।
गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त ॥
abhí ǀ naḥ ǀ agne ǀ ukthám ǀ ít ǀ juguryāḥ ǀ dyā́vākṣā́mā ǀ síndhavaḥ ǀ ca ǀ svá-gūrtāḥ ǀ
gávyam ǀ yávyam ǀ yántaḥ ǀ dīrghā́ ǀ áhā ǀ íṣam ǀ váram ǀ aruṇyáḥ ǀ varanta ǁ
abhi ǀ naḥ ǀ agne ǀ uktham ǀ it ǀ juguryāḥ ǀ dyāvākṣāmā ǀ sindhavaḥ ǀ ca ǀ sva-gūrtāḥ ǀ
gavyam ǀ yavyam ǀ yantaḥ ǀ dīrghā ǀ ahā ǀ iṣam ǀ varam ǀ aruṇyaḥ ǀ varanta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.140.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.07.00
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Jagatī Or Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.