Ṛk 1.15.3
Saṃhitā
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना॑ ।
त्वं हि र॑त्न॒धा असि॑ ॥
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना |
त्वं हि रत्नधा असि ||
abhí yajñám gṛṇīhi no gnā́vo néṣṭaḥ píba ṛtúnā ǀ
tvám hí ratnadhā́ ási ǁ
abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā |
tvaṃ hi ratnadhā asi ||
Padapāṭha
अ॒भि । य॒ज्ञम् । गृ॒णी॒हि॒ । नः॒ । ग्नावः॑ । नेष्ट॒रिति॑ । पिब॑ । ऋ॒तुना॑ ।
त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ॥
अभि । यज्ञम् । गृणीहि । नः । ग्नावः । नेष्टरिति । पिब । ऋतुना ।
त्वम् । हि । रत्नऽधाः । असि ॥
abhí ǀ yajñám ǀ gṛṇīhi ǀ naḥ ǀ gnā́vaḥ ǀ néṣṭaríti ǀ píba ǀ ṛtúnā ǀ
tvám ǀ hí ǀ ratna-dhā́ḥ ǀ ási ǁ
abhi ǀ yajñam ǀ gṛṇīhi ǀ naḥ ǀ gnāvaḥ ǀ neṣṭariti ǀ piba ǀ ṛtunā ǀ
tvam ǀ hi ǀ ratna-dhāḥ ǀ asi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.015.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.28.03
- Maṇḍala · Anuvāka · Ṛk
- 01.04.039
- Devatā देवता
- 1, 5: Indra; 2: Maruts; 3: Tvaṣṭṛ; 4, 12: Agni; 6: Mitra, Varuṇa; 7-10: Draviṇodā; 11: Aśvins
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.