Ṛk 1.51.4
Saṃhitā
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
वृ॒त्रं यदिं॑द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु |
वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ||
tvámapā́mapidhā́nāvṛṇorápā́dhārayaḥ párvate dā́numadvásu ǀ
vṛtrám yádindra śávasā́vadhīráhimā́dítsū́ryam divyā́rohayo dṛśé ǁ
tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu |
vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe ||
Padapāṭha
त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ ।
वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥
त्वम् । अपाम् । अपिऽधाना । अवृणोः । अप । अधारयः । पर्वते । दानुऽमत् । वसु ।
वृत्रम् । यत् । इन्द्र । शवसा । अवधीः । अहिम् । आत् । इत् । सूर्यम् । दिवि । आ । अरोहयः । दृशे ॥
tvám ǀ apā́m ǀ api-dhā́nā ǀ avṛṇoḥ ǀ ápa ǀ ádhārayaḥ ǀ párvate ǀ dā́nu-mat ǀ vásu ǀ
vṛtrám ǀ yát ǀ indra ǀ śávasā ǀ ávadhīḥ ǀ áhim ǀ ā́t ǀ ít ǀ sū́ryam ǀ diví ǀ ā́ ǀ arohayaḥ ǀ dṛśé ǁ
tvam ǀ apām ǀ api-dhānā ǀ avṛṇoḥ ǀ apa ǀ adhārayaḥ ǀ parvate ǀ dānu-mat ǀ vasu ǀ
vṛtram ǀ yat ǀ indra ǀ śavasā ǀ avadhīḥ ǀ ahim ǀ āt ǀ it ǀ sūryam ǀ divi ǀ ā ǀ arohayaḥ ǀ dṛśe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.051.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.09.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.