Ṛk 1.51.14
Saṃhitā
इंद्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिंद्र॒ इद्रा॒यः क्ष॑यति प्रयं॒ता ॥
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः |
अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ||
índro aśrāyi sudhyó nireké pajréṣu stómo dúryo ná yū́paḥ ǀ
aśvayúrgavyū́ rathayúrvasūyúríndra ídrāyáḥ kṣayati prayantā́ ǁ
indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā ||
Padapāṭha
इन्द्रः॑ । अ॒श्रा॒यि॒ । सु॒ऽध्यः॑ । नि॒रे॒के । प॒ज्रेषु॑ । स्तोमः॑ । दुर्यः॑ । न । यूपः॑ ।
अ॒श्व॒ऽयुः । ग॒व्युः । र॒थ॒ऽयुः । व॒सु॒ऽयुः । इन्द्रः॑ । इत् । रा॒यः । क्ष॒य॒ति॒ । प्र॒ऽय॒न्ता ॥
इन्द्रः । अश्रायि । सुऽध्यः । निरेके । पज्रेषु । स्तोमः । दुर्यः । न । यूपः ।
अश्वऽयुः । गव्युः । रथऽयुः । वसुऽयुः । इन्द्रः । इत् । रायः । क्षयति । प्रऽयन्ता ॥
índraḥ ǀ aśrāyi ǀ su-dhyáḥ ǀ nireké ǀ pajréṣu ǀ stómaḥ ǀ dúryaḥ ǀ ná ǀ yū́paḥ ǀ
aśva-yúḥ ǀ gavyúḥ ǀ ratha-yúḥ ǀ vasu-yúḥ ǀ índraḥ ǀ ít ǀ rāyáḥ ǀ kṣayati ǀ pra-yantā́ ǁ
indraḥ ǀ aśrāyi ǀ su-dhyaḥ ǀ nireke ǀ pajreṣu ǀ stomaḥ ǀ duryaḥ ǀ na ǀ yūpaḥ ǀ
aśva-yuḥ ǀ gavyuḥ ǀ ratha-yuḥ ǀ vasu-yuḥ ǀ indraḥ ǀ it ǀ rāyaḥ ǀ kṣayati ǀ pra-yantā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.051.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.11.04
- Maṇḍala · Anuvāka · Ṛk
- 1.10.014
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.