Ṛgveda · Maṇḍala 1 · Sūkta 66

Ṛk 1.66.8

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नां ॥

यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ||

yamó ha jātó yamó jánitvam jāráḥ kanī́nām pátirjánīnām ǁ

yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām ||

Padapāṭha

य॒मः । ह॒ । जा॒तः । य॒मः । जनि॑ऽत्वम् । जा॒रः । क॒नीना॑म् । पतिः॑ । जनी॑नाम् ॥

यमः । ह । जातः । यमः । जनिऽत्वम् । जारः । कनीनाम् । पतिः । जनीनाम् ॥

yamáḥ ǀ ha ǀ jātáḥ ǀ yamáḥ ǀ jáni-tvam ǀ jāráḥ ǀ kanī́nām ǀ pátiḥ ǀ jánīnām ǁ

yamaḥ ǀ ha ǀ jātaḥ ǀ yamaḥ ǀ jani-tvam ǀ jāraḥ ǀ kanīnām ǀ patiḥ ǀ janīnām ǁ

References

Maṇḍala · Sūkta · Ṛk
01.066.08
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.10.08
Maṇḍala · Anuvāka · Ṛk
1.12.018
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.66.8

Interpretations

Sāyaṇa

सृष्टा प्रेरिता सेनेव स्वामिना सह वर्तमाना भटसंहतिरवायमग्निरमं शत्रूणां भयं दधाति । सा यथा बलवती तद्वदग्निरपि बलवानित्यर्थः । निदर्शनांतरमुच्यते । दिद्युदिति वज्रनाम । तेन चात्रेषुर्लक्ष्यते । त्वेषप्रतीका दीप्तमुखास्तुर्न दिद्युत् क्षेप्तुः संबंधिनीषुरिव । सा यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयत इत्यर्थः । अत्र निरुक्तं । सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीकेत्यादि । नि १०-२१ । यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते । यद्वा । इंद्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वं । अस्मिन्नर्थे यास्केन मंत्रब्राह्मणे दर्शिते । यमो ह जात इंद्रेण सह संगतिः । यमाविहेह मातरेत्यपि निगमो भवतीति । यो जात उत्पन्नो भूतसंघो यच्च जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि यमो ह अग्निरेव । सर्वेषां भावानामाहुतिद्वाराग्न्यधीनत्वात् । कनीनां कन्यकानां जारो जरयिता । यतो विवाहसमय अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अतो जरयितेत्युच्यते । तथा जनीनां जायानां कृतविवाहानां पतिर्भर्ता । तथा चाख्यायते । अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोम ईषदुपजातभोगेच्छां तां विश्वावसवे गंधर्वाय प्रादात् । स च गंधर्वो विवाहसमयेऽग्नये प्रददौ । अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छदिति । इममर्थं काचिदृक् स्पष्टं ब्रूते । सोमो ददद्गंधर्वाय गंधर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमां । ऋ । सं १०-८५-४१ । इति । यास्कस्त्वाह । तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति । नि १०-२१ । इति । यद्वा । जनीनां पालयिता यतोऽयमनुष्ठितैर्यागैः फलं प्रयच्छति ॥ सेनेव । इनेन सह वर्तत इति सेना । वोपसर्जनस्येति सभावः । बहुव्रीहिस्वरः । जनित्वं । जनी प्रादुर्भावे । कृत्यार्थे तवैकेनिति कर्मणि त्वन्प्रत्ययः । इडागमः । नित्त्वादाद्युदात्तत्वं । जारः । जरयतीति जारः । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । इति निपात्यते । कनीनां । कन्याशब्दात् षष्ठ्येकवचने बहुलं छंदसीति बहुलग्रर्हणात्संप्रसारणं । परपूर्वत्वं । जनीनां । जन्यंत आस्विति जनयः स्त्रियः । इन्सर्वधातुभ्य इतीन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥ ८ ॥