Ṛgveda · Maṇḍala 1 · Sūkta 66

Ṛk 1.66.10

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

सिंधु॒र्न क्षोदः॒ प्र नीची॑रैनो॒न्नवं॑त॒ गावः॒ स्व१॒॑र्दृशी॑के ॥

सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर् दृशीके ||

síndhurná kṣódaḥ prá nī́cīrainonnávanta gā́vaḥ svárdṛ́śīke ǁ

sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke ||

Padapāṭha

सिन्धुः॑ । न । क्षोदः॑ । प्र । नीचीः॑ । ऐ॒नो॒त् । नव॑न्त । गावः॑ । स्वः॑ । दृशी॑के ॥

सिन्धुः । न । क्षोदः । प्र । नीचीः । ऐनोत् । नवन्त । गावः । स्वः । दृशीके ॥

síndhuḥ ǀ ná ǀ kṣódaḥ ǀ prá ǀ nī́cīḥ ǀ ainot ǀ návanta ǀ gā́vaḥ ǀ sváḥ ǀ dṛ́śīke ǁ

sindhuḥ ǀ na ǀ kṣodaḥ ǀ pra ǀ nīcīḥ ǀ ainot ǀ navanta ǀ gāvaḥ ǀ svaḥ ǀ dṛśīke ǁ

References

Maṇḍala · Sūkta · Ṛk
01.066.10
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.10.10
Maṇḍala · Anuvāka · Ṛk
1.12.020
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.66.10

Interpretations

Sāyaṇa

व इति व्यत्ययेन बहुवचनं । हे अग्ने तं त्वां चराथा । चरतीति चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्याहुतिरपि चरथेत्युच्यते । उपचारात्कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनयाहुत्या । वसत्या । वसति निवसतीति स्थावरो व्रीह्यादिर्वसतः । पूर्ववत्तत्साध्याहुतिर्लक्ष्यते । वसत्या पुरुडाशाद्याहुत्या च वयमिद्धं प्रदीप्तमग्निं नक्षंते । व्याप्नुयाम । पुरुषव्यत्ययः । तत्र दृष्टांतः । अस्तं न गावः । अस्तमिति गृहनाम । यथा गावो गृहं व्याप्नुवंति तद्वत् । अत्र यास्कः । तं वश्चराथा चरंत्या पश्वाहुत्या वसत्या च निवसंत्यौषधाहुत्यास्तं यथा गाव आप्नुवंति तथाप्नुयाम । नि १०-२१ । इति । अयमग्निः सिंधुर्न क्षोदः स्यंदनशीलमुदकमिव नीचीर्नितरामंचतीरितस्ततो नितरामुद्गच्छंतीर्ज्वालाः प्रैनोत् । प्रेरयति । यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वाला दग्धव्यं प्रति गच्छंतीति भावः । स्वर्नभसि वर्तमाने दृशीके दर्शनीये तस्मिन्नग्नौ गावो गमनस्वभावा रश्मयो नवंत । संगच्छंते । नवतिर्गतिकर्मा ॥ चराथा । चरेरौणादिकोऽथक्प्रत्ययः । दीर्घश्छांदसः । सुपां सुलुगिति विभक्तेराकारः । वसत्या । वहिवस्यर्तिभ्यश्चित् । उ ४-६० । इत्यतिप्रत्ययः । उदात्तयण इति विभक्तेरुदात्तत्वं । अस्तं । अस्यतेऽस्मिन्सर्वमित्यस्तं गृहं । असिहसीत्यादिना तन् । तितुत्रेतीट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वं । नक्षंते । नक्षतिर्व्याप्तिकर्मा । नक्ष गतौ । व्यत्ययेनात्मनेपदं । चादिलोपे विभाषेतिः निघाताभावः । नीची । निपूर्वादंचतेश्चोपसंख्यानं । पा ४-१-६-२ । इति ङीप् । आच इत्यकारलोपे चामिति दीर्घत्वं । न्यधी च । पा ६-२-५३ । इति गतेः प्रकृतिस्वरत्वं । ऐनोत् । इण् गतौ । अंतर्भावितण्यर्थाच्छंदसि लुङ् लङ् लिट इति वर्तमाने लङि व्यत्ययेन श्नुः । आडागमो वृद्धिश्च । दृशीके । दृशिर् प्रेक्षणे । अनिदृशिभ्यां चेति कीकन्प्रत्ययः । नित्त्यादाद्युदात्तत्वं ॥ ९ ॥ १० ॥