Ṛgveda · Maṇḍala 1 · Sūkta 187
Ṛk 1.187.6
Saṃhitā
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तं ।
अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥
त्वे पितो महानां देवानाम् मनो हितम् |
अकारि चारु केतुना तवाहिम् अवसावधीत् ||
tvé pito mahā́nām devā́nām máno hitám ǀ
ákāri cā́ru ketúnā távā́himávasāvadhīt ǁ
tve pito mahānāṃ devānām mano hitam |
akāri cāru ketunā tavāhim avasāvadhīt ||
Padapāṭha
त्वे इति॑ । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् ।
अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥
त्वे इति । पितो इति । महानाम् । देवानाम् । मनः । हितम् ।
अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥
tvé íti ǀ pito íti ǀ mahā́nām ǀ devā́nām ǀ mánaḥ ǀ hitám ǀ
ákāri ǀ cā́ru ǀ ketúnā ǀ táva ǀ áhim ǀ ávasā ǀ avadhīt ǁ
tve iti ǀ pito iti ǀ mahānām ǀ devānām ǀ manaḥ ǀ hitam ǀ
akāri ǀ cāru ǀ ketunā ǀ tava ǀ ahim ǀ avasā ǀ avadhīt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.187.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.07.00
- Devatā देवता
- Pitu
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Anuṣṭubhgarbhā, Anuṣṭubh Or Bṛhatī
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.