Ṛgveda · Maṇḍala 1 · Sūkta 187
Ṛk 1.187.1
Saṃhitā
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीं ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥
पितुं नु स्तोषम् महो धर्माणं तविषीम् |
यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ||
pitúm nú stoṣam mahó dharmā́ṇam táviṣīm ǀ
yásya tritó vyójasā vṛtrám víparvamardáyat ǁ
pituṃ nu stoṣam maho dharmāṇaṃ taviṣīm |
yasya trito vy ojasā vṛtraṃ viparvam ardayat ||
Padapāṭha
पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् ।
यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥
पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् ।
यस्य । त्रितः । वि । ओजसा । वृत्रम् । विऽपर्वम् । अर्दयत् ॥
pitúm ǀ nú ǀ stoṣam ǀ maháḥ ǀ dharmā́ṇam ǀ táviṣīm ǀ
yásya ǀ tritáḥ ǀ ví ǀ ójasā ǀ vṛtrám ǀ ví-parvam ǀ ardáyat ǁ
pitum ǀ nu ǀ stoṣam ǀ mahaḥ ǀ dharmāṇam ǀ taviṣīm ǀ
yasya ǀ tritaḥ ǀ vi ǀ ojasā ǀ vṛtram ǀ vi-parvam ǀ ardayat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.187.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.06.00
- Devatā देवता
- Pitu
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Anuṣṭubhgarbhā, Anuṣṭubh Or Bṛhatī
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.