Ṛgveda · Maṇḍala 1 · Sūkta 187
Ṛk 1.187.7
Saṃhitā
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानां ।
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥
यद् अदो पितो अजगन् विवस्व पर्वतानाम् |
अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ||
yádadó pito ájaganvivásva párvatānām ǀ
átrā cinno madho pitó’ram bhakṣā́ya gamyāḥ ǁ
yad ado pito ajagan vivasva parvatānām |
atrā cin no madho pito 'ram bhakṣāya gamyāḥ ||
Padapāṭha
यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् ।
अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥
यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् ।
अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥
yát ǀ adáḥ ǀ pito íti ǀ ájagan ǀ vivásva ǀ párvatānām ǀ
átra ǀ cit ǀ naḥ ǀ madho íti ǀ pito íti ǀ áram ǀ bhakṣā́ya ǀ gamyāḥ ǁ
yat ǀ adaḥ ǀ pito iti ǀ ajagan ǀ vivasva ǀ parvatānām ǀ
atra ǀ cit ǀ naḥ ǀ madho iti ǀ pito iti ǀ aram ǀ bhakṣāya ǀ gamyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.187.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.07.00
- Devatā देवता
- Pitu
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Anuṣṭubhgarbhā, Anuṣṭubh Or Bṛhatī
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.