Ṛgveda · Maṇḍala 1 · Sūkta 138
Ṛk 1.138.2
Saṃhitā
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृधः॑ ।
हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्यः॑ ।
अ॒स्माक॑मांगू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥
प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः |
हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः |
अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ||
prá hí tvā pūṣannajirám ná yā́mani stómebhiḥ kṛṇvá ṛṇávo yáthā mṛ́dha úṣṭro ná pīparo mṛ́dhaḥ ǀ
huvé yáttvā mayobhúvam devám sakhyā́ya mártyaḥ ǀ
asmā́kamāṅgūṣā́ndyumnínaskṛdhi vā́jeṣu dyumnínaskṛdhi ǁ
pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ |
asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi ||
Padapāṭha
प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ ।
हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ ।
अ॒स्माक॑म् । आ॒ङ्गू॒षान् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥
प्र । हि । त्वा । पूषन् । अजिरम् । न । यामनि । स्तोमेभिः । कृण्वे । ऋणवः । यथा । मृधः । उष्ट्रः । न । पीपरः । मृधः ।
हुवे । यत् । त्वा । मयःऽभुवम् । देवम् । सख्याय । मर्त्यः ।
अस्माकम् । आङ्गूषान् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥
prá ǀ hí ǀ tvā ǀ pūṣan ǀ ajirám ǀ ná ǀ yā́mani ǀ stómebhiḥ ǀ kṛṇvé ǀ ṛṇávaḥ ǀ yáthā ǀ mṛ́dhaḥ ǀ úṣṭraḥ ǀ ná ǀ pīparaḥ ǀ mṛ́dhaḥ ǀ
huvé ǀ yát ǀ tvā ǀ mayaḥ-bhúvam ǀ devám ǀ sakhyā́ya ǀ mártyaḥ ǀ
asmā́kam ǀ āṅgūṣā́n ǀ dyumnínaḥ ǀ kṛdhi ǀ vā́jeṣu ǀ dyumnínaḥ ǀ kṛdhi ǁ
pra ǀ hi ǀ tvā ǀ pūṣan ǀ ajiram ǀ na ǀ yāmani ǀ stomebhiḥ ǀ kṛṇve ǀ ṛṇavaḥ ǀ yathā ǀ mṛdhaḥ ǀ uṣṭraḥ ǀ na ǀ pīparaḥ ǀ mṛdhaḥ ǀ
huve ǀ yat ǀ tvā ǀ mayaḥ-bhuvam ǀ devam ǀ sakhyāya ǀ martyaḥ ǀ
asmākam ǀ āṅgūṣān ǀ dyumninaḥ ǀ kṛdhi ǀ vājeṣu ǀ dyumninaḥ ǀ kṛdhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.138.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.02.00
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.