Ṛgveda · Maṇḍala 1 · Sūkta 133
Ṛk 1.133.6
Saṃhitā
अ॒वर्म॒ह इं॑द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः ।
शु॒ष्मिंत॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से ।
अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥
अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान् न भीषां अद्रिवः |
शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे |
अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ||
avármahá indra dādṛhí śrudhī́ naḥ śuśóca hí dyáuḥ kṣā́ ná bhīṣā́m̐ adrivo ghṛṇā́nná bhīṣā́m̐ adrivaḥ ǀ
śuṣmíntamo hí śuṣmíbhirvadháirugrébhirī́yase ǀ
ápūruṣaghno apratīta śūra sátvabhistrisaptáiḥ śūra sátvabhiḥ ǁ
avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṃ adrivo ghṛṇān na bhīṣāṃ adrivaḥ |
śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase |
apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ ||
Padapāṭha
अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच॑ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒ऽवः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒ऽवः॒ ।
शु॒ष्मिन्ऽत॑मः । हि । शु॒ष्मिऽभिः॑ । व॒धैः । उ॒ग्रेभिः॑ । ईय॑से ।
अपु॑रुषऽघ्नः । अ॒प्र॒ति॒ऽइ॒त॒ । शू॒र॒ । सत्व॑ऽभिः । त्रि॒ऽस॒प्तैः । शू॒र॒ । सत्व॑ऽभिः ॥
अवः । महः । इन्द्र । ददृहि । श्रुधि । नः । शुशोच । हि । द्यौः । क्षाः । न । भीषा । अद्रिऽवः । घृणात् । न । भीषा । अद्रिऽवः ।
शुष्मिन्ऽतमः । हि । शुष्मिऽभिः । वधैः । उग्रेभिः । ईयसे ।
अपुरुषऽघ्नः । अप्रतिऽइत । शूर । सत्वऽभिः । त्रिऽसप्तैः । शूर । सत्वऽभिः ॥
aváḥ ǀ maháḥ ǀ indra ǀ dadṛhí ǀ śrudhí ǀ naḥ ǀ śuśóca ǀ hí ǀ dyáuḥ ǀ kṣā́ḥ ǀ ná ǀ bhīṣā́ ǀ adri-vaḥ ǀ ghṛṇā́t ǀ ná ǀ bhīṣā́ ǀ adri-vaḥ ǀ
śuṣmín-tamaḥ ǀ hí ǀ śuṣmí-bhiḥ ǀ vadháiḥ ǀ ugrébhiḥ ǀ ī́yase ǀ
ápuruṣa-ghnaḥ ǀ aprati-ita ǀ śūra ǀ sátva-bhiḥ ǀ tri-saptáiḥ ǀ śūra ǀ sátva-bhiḥ ǁ
avaḥ ǀ mahaḥ ǀ indra ǀ dadṛhi ǀ śrudhi ǀ naḥ ǀ śuśoca ǀ hi ǀ dyauḥ ǀ kṣāḥ ǀ na ǀ bhīṣā ǀ adri-vaḥ ǀ ghṛṇāt ǀ na ǀ bhīṣā ǀ adri-vaḥ ǀ
śuṣmin-tamaḥ ǀ hi ǀ śuṣmi-bhiḥ ǀ vadhaiḥ ǀ ugrebhiḥ ǀ īyase ǀ
apuruṣa-ghnaḥ ǀ aprati-ita ǀ śūra ǀ satva-bhiḥ ǀ tri-saptaiḥ ǀ śūra ǀ satva-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.133.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.22.06
- Maṇḍala · Anuvāka · Ṛk
- 1.19.059
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Gāyatrī, Dhṛti, Atyaṣṭi
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.