Ṛk 1.73.9
Saṃhitā
अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑ ।
ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥
अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः |
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ||
árvadbhiragne árvato nṛ́bhirnṝ́nvīráirvīrā́nvanuyāmā tvótāḥ ǀ
īśānā́saḥ pitṛvittásya rāyó ví sūráyaḥ śatáhimā no aśyuḥ ǁ
arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ |
īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||
Padapāṭha
अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः ।
ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥
अर्वत्ऽभिः । अग्ने । अर्वतः । नृऽभिः । नॄन् । वीरैः । वीरान् । वनुयाम । त्वाऽऊताः ।
ईशानासः । पितृऽवित्तस्य । रायः । वि । सूरयः । शतऽहिमाः । नः । अश्युः ॥
árvat-bhiḥ ǀ agne ǀ árvataḥ ǀ nṛ́-bhiḥ ǀ nṝ́n ǀ vīráiḥ ǀ vīrā́n ǀ vanuyāma ǀ tvā́-ūtāḥ ǀ
īśānā́saḥ ǀ pitṛ-vittásya ǀ rāyáḥ ǀ ví ǀ sūráyaḥ ǀ śatá-himāḥ ǀ naḥ ǀ aśyuḥ ǁ
arvat-bhiḥ ǀ agne ǀ arvataḥ ǀ nṛ-bhiḥ ǀ nṝn ǀ vīraiḥ ǀ vīrān ǀ vanuyāma ǀ tvā-ūtāḥ ǀ
īśānāsaḥ ǀ pitṛ-vittasya ǀ rāyaḥ ǀ vi ǀ sūrayaḥ ǀ śata-himāḥ ǀ naḥ ǀ aśyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.073.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.20.04
- Maṇḍala · Anuvāka · Ṛk
- 1.12.090
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.